ताजा सामाग्री

तिल दान गर्नासाथ वैकुण्ठ पुगिने : षट्तिला एकादशी

तिल दान गर्नासाथ वैकुण्ठ पुगिने : षट्तिला एकादशी को फोटो
No Comments , शुक्रबार, पुस २८, २०७४ , by Krishna Pd. Koirala

॥ युधिष्ठिर उवाच ॥

साधु कृष्ण जगन्नाथ आदिदेव जगत्पते

कथयस्व प्रसादेन कृपां कुरु ममोपरि ॥१॥

माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत्

किं नाम को विधिस्तस्या एतद्विस्तरतो वद ॥२॥

॥ श्रीभगवानुवाच ॥

शृणु त्वं नृपशार्दूल कृष्णमाघस्य या भवेत्

षट्तिला नाम विख्याता सर्वपापप्रणाशिनी ॥१॥

षट्तिलायाः शृणुष्व त्वं कथां पापहरां शुभाम्

यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति चोक्तवान् ॥२॥

॥ दालभ्य उवाच ॥

मर्त्यलोकमनुप्राप्ताः पापं कुर्वंति जंतवः

ब्रह्महत्यादिपापैश्च युक्ता ये विविधादिभिः ॥३॥

परद्रव्यापहाराश्च परव्यसनमोहिताः

कथं न यांति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वतः ॥४॥

अनायासेन भगवन्दानेनाल्पेन केनचित्

पापं प्रशमनं याति एतन्मे वक्तुमर्हसि ॥५॥

॥ पुलस्त्य उवाच ॥

साधुसाधु महाभाग गुह्यमेतत्सुदुर्ल्लभम्

यन्न कस्यचिदाख्यातं विष्णुब्रह्मेंद्रदैवतैः ॥६॥

तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम

माघमासे तु संप्राप्ते शुचिस्नातो जितेंद्रियः ॥७॥

कामक्रोधाभिमानेर्ष्यालोभ पैशुन्य वर्जितः

देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः ॥८॥

भूमावपतितं गृह्य गोमयं तत्र मानवः

तिलान्प्रक्षिप्य कार्पांसं पिंडिकाश्चैव कारयेत् ॥९॥

अष्टोत्तरशतं चैव नात्र कार्या विचारणा

ततो माघे च संप्राप्ते ह्याषाढर्क्षं भवेद्यदि ॥१०॥

मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः

गृह्णीयात्पुण्यकाले च विधानं तत्र मे शृणु ॥११॥

देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः

कृष्णनामानि संकीर्त्य पुनः प्रस्खलितादिषु ॥१२॥

रात्रौ जागरणं कुर्यादादौ होमं च कारयेत्

अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम् ॥१३॥

चंदनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा

संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः ॥१४॥

कूष्मांडैर्नारिकेरैश्च ह्यथवा बीजपूरकैः

सर्वाभावेऽपि विप्रेंद्र शस्तपूगफलैर्वृतम्

अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम् ॥१५॥

कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव

संसारार्णव मग्नानां प्रसीद पुरुषोत्तम ॥१६॥

नमस्ते पुंडरीकाक्ष नमस्ते विश्वभावन

सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज

गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते ॥१७॥

॥ इत्यर्घमंत्रः ॥

ततस्तु पूजयेद्विप्रमुदकुंभं प्रदापयेत्

छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति ॥१८॥

कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे

तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः ॥१९॥

स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने

तान्प्रदद्यात्प्रयत्नेन यथाशक्ति द्विजोत्तमे

तिलप्ररोहजाः क्षत्रे यावत्संख्यास्तिला द्विज ॥२०॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते

तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी ॥२१॥

तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः

॥ नारद उवाच ॥

कृष्णकृष्ण महाबाहो नमस्ते विश्वभावन ॥२२॥

षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै

सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव

॥ श्रीकृष्ण उवाच ॥

शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते

मर्त्यलोके पुरा ह्यासीद्ब्राह्मण्येका च नारद

व्रतचर्यारता नित्यं देवपूजारता सदा ॥२३॥

मासोपवासनिरता मम भक्ता च सर्वदा

कृष्णोपवाससंयुक्ता मम पूजापरायणा ॥२४॥

शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम

देवानां ब्राह्मणानां च कुमारीणां च भक्तितः ॥२५॥

गृहादिकं प्रयच्छंती सर्वकालं महासती

अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज ॥२६॥

न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः ॥२७॥

ततः कालेन महता मया वै चिंतितं द्विज

शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः ॥२८॥

अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया

न दत्तमन्नदानं हि येन तृप्तिः परा भवेत् ॥२९॥

एवं ज्ञात्वा अहं ब्रह्मन्मर्त्यलोकमुपागतः

कापालं रूपमास्थाय भिक्षापात्रे च याचिता ॥३०॥

कस्मात्त्वमागतो ब्रह्मन्क्व यासि वद मेऽग्रतः

पुनरेव मया प्रोक्तं देहि भिक्षां च सुंदरि ॥३१॥

तया कोपेन महता मृत्पिंडस्ताम्रभाजने

क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज ॥३२॥

ततः कालेन महता तापसी सुमहाव्रता

सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः ॥३३॥

मृत्पिंडिकाप्रदानेन गृहं प्राप्तं मनोरमम्

संजातं चैव विप्रर्षे धान्यराशि विवर्जितम् ॥३४॥

गृहं यावन्निरीक्षेत न किंचित्तत्र पश्यति

तावद्गृहाद्विनिष्क्रांता ममांते चागता द्विज ॥३५॥

क्रोधेन महताविष्टमिदं वचनमब्रवीत्

मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः ॥३६॥

पूजयाराधितो देवः सर्वलोकस्य पालकः

न तत्र दृश्यते किंचिद्गृहे मम जनार्दन ॥३७॥

ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते

आगमिष्यंति सुतरां कौतूहल समन्विताः ॥३८॥

देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः

द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात् ॥३९॥

एवमुक्ता मया सा तु गता वै मानुषी तदा

अत्रांतरे समायाता देवपत्न्यश्च वाडव ॥४०॥

ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः

द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने ॥४१॥

॥ मानुष्युवाच ॥

यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः

षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात् ॥४२॥

॥ श्रीकृष्ण उवाच ॥

एकापिनावदत्तत्र षट्तिलैकादशीव्रतम्

अन्यया कथितं तत्र द्रष्टव्या मानुषी मया ॥४३॥

ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी

न देवी न च गंधर्वी नासुरी न च पन्नगी ॥४४॥

दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ

देवीनामुपदेशेन षट्तिलाया व्रतं कृतम् ॥४५॥

मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम्

रूपकांतिसमायुक्ता क्षणेन समवाप सा ॥४६॥

धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च

भवनं सर्वसंपन्नं षट्तिलायाः प्रभावतः ॥४७॥

रूपकांतिसमायुक्ता क्षणेन समपद्यत ॥४८॥

अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत्

आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत् ॥४९॥

लभते चैवमारोग्यं नरो जन्मनि जन्मनि

न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च ॥५०॥

संभवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात्

अनेन विधिना भूप तिलदाता न संशयः ॥५१॥

मुच्यते पातकैः सर्वैरनायासेन मानवः

दानं च विधिवत्पात्रे सर्वपातकनाशनम्

नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम ॥५२॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघकृष्णाषट्तिलैकादशी नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

प्रतिक्रिया दिनुहोस्

तपाइको इमेल प्रकासन गरिने छैन! सबै फाँट अनिबार्य छ!